हनुमान कृत श्रीराम स्तुति

नमो रामाय हरये विष्णवे प्रभविष्णवे, आदिदेवाय देवाय पुराणाय गदाभृते |

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Sun, 26-Mar-2023 Hindi-gujarati

नमो रामाय हरये विष्णवे प्रभविष्णवे

आदिदेवाय देवाय पुराणाय गदाभृते |

विष्टरे पुष्पके नित्यं निविष्टाय महात्मने,

प्रहष्ट वानरानीकजुष्टपादाम्बुजाय ते  ॥१॥

निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने,

नमः सहस्त्रशिरसे सहस्त्रचरणाय च |

सहस्त्राक्षाय शुद्धाय राघवाय च विष्णवे,

भक्तार्तिहारिणे तुभ्यं सीतायाः पतये  नमः  ॥२॥

हरये नारसिंहाय दैत्यराजविदारिणे,

नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर |

त्रिविक्रमयाय भवते बलियज्ञविभेदिने,

नमो वामन रूपाय नमो मन्दरधारिणे ॥३॥

नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे,

नमः परशुरामाय क्षत्रियान्तकराय ते ।

नमस्ते राक्षसघ्नाय नमो राघवरूपिणे,

महादेवमहाभीममहाकोदण्डभेदिने  ॥४॥

क्षत्रियान्तकरक्रूरभार्गवत्रास​कारिणे,

नमोस्त्वहल्यासंतापहारिणे चापधारिणे ।

नागायुतबलोपेतताटकादेहहारिणे,

शिलाकठिनविस्तारवालिवक्षोविभेदि​ने ॥५॥

नमो मायामृगोन्माथकारिणेsज्ञानहारिणे,

दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ।

अनेकोर्मिसमाधूतसमुद्रमदहारिणे,

मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥६॥

राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे,

तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।

रामाय रामचन्द्राय वरेण्याय सुखात्मने,

विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥ ७॥

प्रसीद देवदेवेश भक्तानामभयप्रद,

रक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ।

रक्ष मां वेदवचसामप्यगोचर राघव,

पाहि मां कृपया राम शरणं त्वामुपैम्यहम्॥८॥

रघुवीर महामोहमपाकुरु ममाधुना,

स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु |

सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥९॥

महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।

त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥१०॥